विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । |
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ 1 ॥ |
|
पूतात्मा परमात्मा च मुक्तानां परमागतिः । |
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोஉक्षर एव च ॥ 2 ॥ |
|
योगो योगविदां नेता प्रधान पुरुषेश्वरः । |
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ 3 ॥ |
|
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः । |
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ 4 ॥ |
|
स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः । |
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ 5 ॥ |
|
अप्रमेयो हृषीकेशः पद्मनाभोஉमरप्रभुः । |
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ 6 ॥ |
|
अग्राह्यः शाश्वतो कृष्णो लोहिताक्षः प्रतर्दनः । |
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ 7 ॥ |
|
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । |
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ 8 ॥ |
|
ईश्वरो विक्रमीधन्वी मेधावी विक्रमः क्रमः । |
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्॥ 9 ॥ |
|
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । |
अहस्संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ 10 ॥ |
|
अजस्सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः । |
वृषाकपिरमेयात्मा सर्वयोगविनिस्सृतः ॥ 11 ॥ |
|
वसुर्वसुमनाः सत्यः समात्मा सम्मितस्समः । |
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ 12 ॥ |
|
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः । |
अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ 13 ॥ |
|
सर्वगः सर्व विद्भानुर्विष्वक्सेनो जनार्दनः । |
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ॥ 14 ॥ |
|
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । |
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ 15 ॥ |
|
भ्राजिष्णुर्भोजनं भोक्ता सहिष्नुर्जगदादिजः । |
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ 16 ॥ |
|
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः । |
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ 17 ॥ |
|
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । |
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ 18 ॥ |
|
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । |
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ 19 ॥ |
|
महेश्वासो महीभर्ता श्रीनिवासः सताङ्गतिः । |
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ 20 ॥ |
|
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । |
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ 21 ॥ |
|
अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः । |
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ 22 ॥ |
|
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । |
निमिषोஉनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ 23 ॥ |
|
अग्रणीग्रामणीः श्रीमान् न्यायो नेता समीरणः |
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ 24 ॥ |
|
आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः । |
अहः संवर्तको वह्निरनिलो धरणीधरः ॥ 25 ॥ |
|
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः । |
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ 26 ॥ |
|
असङ्ख्येयोஉप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः । |
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धि साधनः ॥ 27 ॥ |
|
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । |
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ 28 ॥ |
|
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । |
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ 29 ॥ |
|
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । |
ऋद्दः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ 30 ॥ |
|
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः । |
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ 31 ॥ |
|
भूतभव्यभवन्नाथः पवनः पावनोஉनलः । |
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ 32 ॥ |
|
युगादि कृद्युगावर्तो नैकमायो महाशनः । |
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ 33 ॥ |
|
इष्टोஉविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । |
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ 34 ॥ |
|
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । |
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ 35 ॥ |
|
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । |
वासुदेवो बृहद्भानुरादिदेवः पुरन्धरः ॥ 36 ॥ |
|
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । |
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ 37 ॥ |
|
पद्मनाभोஉरविन्दाक्षः पद्मगर्भः शरीरभृत् । |
महर्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ 38 ॥ |
|
अतुलः शरभो भीमः समयज्ञो हविर्हरिः । |
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ 39 ॥ |
|
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः । |
महीधरो महाभागो वेगवानमिताशनः ॥ 40 ॥ |
|
उद्भवः, क्षोभणो देवः श्रीगर्भः परमेश्वरः । |
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ 41 ॥ |
|
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः । |
परर्धिः परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ॥ 42 ॥ |
|
रामो विरामो विरजो मार्गोनेयो नयोஉनयः । |
वीरः शक्तिमतां श्रेष्ठो धर्मोधर्म विदुत्तमः ॥ 43 ॥ |
|
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । |
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ 44 ॥ |
|
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । |
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ 45 ॥ |
|
विस्तारः स्थावर स्थाणुः प्रमाणं बीजमव्ययम् । |
अर्थोஉनर्थो महाकोशो महाभोगो महाधनः ॥ 46 ॥ |
|
अनिर्विण्णः स्थविष्ठो भूद्धर्मयूपो महामखः । |
नक्षत्रनेमिर्नक्षत्री क्षमः, क्षामः समीहनः ॥ 47 ॥ |
|
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सताङ्गतिः । |
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ 48 ॥ |
|
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् । |
मनोहरो जितक्रोधो वीर बाहुर्विदारणः ॥ 49 ॥ |
|
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्। । |
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ 50 ॥ |
|
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्॥ |
अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः ॥ 51 ॥ |
|
गभस्तिनेमिः सत्त्वस्थः सिंहो भूत महेश्वरः । |
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ 52 ॥ |
|
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । |
शरीर भूतभृद् भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ 53 ॥ |
|
सोमपोஉमृतपः सोमः पुरुजित् पुरुसत्तमः । |
विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ॥ 54 ॥ |
|
जीवो विनयिता साक्षी मुकुन्दोஉमित विक्रमः । |
अम्भोनिधिरनन्तात्मा महोदधि शयोन्तकः ॥ 55 ॥ |
|
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । |
आनन्दोஉनन्दनोनन्दः सत्यधर्मा त्रिविक्रमः ॥ 56 ॥ |
|
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । |
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ 57 ॥ |
|
महावराहो गोविन्दः सुषेणः कनकाङ्गदी । |
गुह्यो गभीरो गहनो गुप्तश्चक्र गदाधरः ॥ 58 ॥ |
|
वेधाः स्वाङ्गोஉजितः कृष्णो दृढः सङ्कर्षणोஉच्युतः । |
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ 59 ॥ |
|
भगवान् भगहाஉஉनन्दी वनमाली हलायुधः । |
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ 60 ॥ |
|
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । |
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ 61 ॥ |
|
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् । |
सन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्। 62 ॥ |
|
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः । |
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ 63 ॥ |
|
अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः । |
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ 64 ॥ |
|
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । |
श्रीधरः श्रीकरः श्रेयः श्रीमांल्लोकत्रयाश्रयः ॥ 65 ॥ |
|
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः । |
विजितात्माஉविधेयात्मा सत्कीर्तिच्छिन्नसंशयः ॥ 66 ॥ |
|
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः । |
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ 67 ॥ |
|
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः । |
अनिरुद्धोஉप्रतिरथः प्रद्युम्नोஉमितविक्रमः ॥ 68 ॥ |
|
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः । |
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ 69 ॥ |
|
कामदेवः कामपालः कामी कान्तः कृतागमः । |
अनिर्देश्यवपुर्विष्णुर्वीरोஉनन्तो धनञ्जयः ॥ 70 ॥ |
|
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । |
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ 71 ॥ |
|
महाक्रमो महाकर्मा महातेजा महोरगः । |
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ 72 ॥ |
|
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । |
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ 73 ॥ |
|
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । |
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ 74 ॥ |
|
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः । |
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ 75 ॥ |
|
भूतावासो वासुदेवः सर्वासुनिलयोஉनलः । |
दर्पहा दर्पदो दृप्तो दुर्धरोஉथापराजितः ॥ 76 ॥ |
|
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् । |
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ 77 ॥ |
|
एको नैकः सवः कः किं यत्तत् पदमनुत्तमम् । |
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ 78 ॥ |
|
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी । |
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ 79 ॥ |
|
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् । |
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ 80 ॥ |
|
तेजोஉवृषो द्युतिधरः सर्वशस्त्रभृतांवरः । |
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ 81 ॥ |
|
चतुर्मूर्ति श्चतुर्बाहु श्चतुर्व्यूह श्चतुर्गतिः । |
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ 82 ॥ |
|
समावर्तोஉनिवृत्तात्मा दुर्जयो दुरतिक्रमः । |
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ 83 ॥ |
|
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । |
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ 84 ॥ |
|
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । |
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ 85 ॥ |
|
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । |
महाहृदो महागर्तो महाभूतो महानिधिः ॥ 86 ॥ |
|
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोஉनिलः । |
अमृताशोஉमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ 87 ॥ |
|
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । |
न्यग्रोधोஉदुम्बरोஉश्वत्थश्चाणूरान्ध्र निषूदनः ॥ 88 ॥ |
|
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः । |
अमूर्तिरनघोஉचिन्त्यो भयकृद्भयनाशनः ॥ 89 ॥ |
|
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् । |
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ 90 ॥ |
|
भारभृत् कथितो योगी योगीशः सर्वकामदः । |
आश्रमः श्रमणः, क्षामः सुपर्णो वायुवाहनः ॥ 91 ॥ |
|
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । |
अपराजितः सर्वसहो नियन्ताஉनियमोஉयमः ॥ 92 ॥ |
|
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः । |
अभिप्रायः प्रियार्होஉर्हः प्रियकृत् प्रीतिवर्धनः ॥ 93 ॥ |
|
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः । |
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ 94 ॥ |
|
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोஉग्रजः । |
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ॥ 95 ॥ |
|
सनात्सनातनतमः कपिलः कपिरव्ययः । |
स्वस्तिदः स्वस्तिकृत्स्वस्तिः स्वस्तिभुक् स्वस्तिदक्षिणः ॥ 96 ॥ |
|
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । |
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ 97 ॥ |
|
अक्रूरः पेशलो दक्षो दक्षिणः, क्षमिणांवरः । |
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ 98 ॥ |
|
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः । |
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ 99 ॥ |
|
अनन्तरूपोஉनन्त श्रीर्जितमन्युर्भयापहः । |
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ 100 ॥ |
|
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । |
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ 101 ॥ |
|
आधारनिलयोஉधाता पुष्पहासः प्रजागरः । |
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ 102 ॥ |
|
प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः । |
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ 103 ॥ |
|
भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः । |
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ 104 ॥ |
|
यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुक् यज्ञसाधनः । |
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ 105 ॥ |
|
आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः । |
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ 106 ॥ |
|
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । |
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ 107 ॥ |
|
श्री सर्वप्रहरणायुध ॐ नम इति । |
|
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी । |
श्रीमान्नारायणो विष्णुर्वासुदेवोஉभिरक्षतु ॥ 108 ॥ |
|
श्री वासुदेवोஉभिरक्षतु ॐ नम इति । |